less than 1 minute read

भूसूक्तम्

Bhoosuktam

ॐ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे ॥
आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यन्त्सुवः॑ ॥ त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒ द्युभिः॑ ॥ अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन् महि॒षः सुवः॑ ॥

यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥
यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णाग् श्रोत्रं॒ चक्षु॒र्मनः॑ ॥
दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री।
सद॑ने स॒त्याय॑ने सीद । स॒मु॒द्रव॑ती सावि॒त्रीह॒ नो दे॒वी म॒ह्यङ्गी᳚ ।
म॒हीधर॑णी म॒होव्यथि॑ष्ठा-श्श‍ृ॒ङ्गे श‍ृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षिणी᳚ ॥

इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह ।
वा॒यु॒मती॑ जल॒शय॑नी श्रि॒यन्धा॒राजा॑ स॒त्यन्धो॒परि॑मेदिनी ।
श्वो॒परि॑धत्तं॒ परि॑गाय । वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मीं᳚ प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि । तन्नो॑ धरा प्रचो॒दया᳚त्।
म॒हीं दे॒वीं विष्णु॑पत्नी-मजू॒र्याम् । प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः ।
त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् ।
तच्छ्रो॒णैति॒श्रव॑-इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लोकं॒ यज॑मानाय कृण्व॒ती ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ नीळासूक्तम् ॥
ॐ गृ॒णा॒हि॒ । घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒रन्ति॒राशा॑नो अस्तु ।
ध्रु॒वा दि॒शां विष्णु॑प॒त्न्यघो॑रा॒ऽस्येशा॑ना॒सह॑सो॒या म॒नोता᳚ ।
बृह॒स्पति॑-र्मात॒रिश्वो॒त वा॒युस्स॑न्धुवा॒नावाता॑ अ॒भि नो॑ गृणन्तु ।
वि॒ष्ट॒म्भो दि॒वोध॒रुणः॑ पृथि॒व्या अ॒स्येश्या॑ना॒ जग॑तो॒ विष्णु॑पत्नी ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Updated: