↓Skip to main content
  1. Samskrut Yatra Blog/

मनुष्यस्य शरीरस्य महत्वं

·282 words·2 mins· loading · ·
Sanskrit Text Katha

Importance of Human Body
#

मनुष्यस्य शरीरस्य महत्वं
#

यावत् जीवामः तावदेव मनुष्यस्य शरीरस्य महत्वं भवति
#

पूर्वम् एकः महान् राजा आसीत्!
सः बहु धर्मिष्ठः आसीत्!

एकदा सः मन्त्रिणा सह विहारार्थं बहिर्गतवान् आसीत्!

गमनसमये राजा मार्गे कञ्चन वृद्धं दृष्टवान्!

तदा महाराजः तस्य वृद्धस्य समीपं गत्वा तस्य पादयोः शिरः स्थापयित्वा नमस्कारं कृतवान्!
सः वृद्धः अपि राजानम् आशिर्वादं कृतवान्!

परन्तु राज्ञः एवम् आचरणं मन्त्रिणे न अरोचत!

एतत् सर्वं दृष्ट्वा खिन्नः मन्त्री राजानं पृष्टवान् हे राजन्!
भवान् अस्य राज्यस्य चक्रवर्ती राजा अस्ति! किमर्थम् एवं आचरणं कृतं भवता इति!

तदा राजा किमपि न उक्तवान् मौनम् एव हसितवान्!

कानिचन दिनानि अतीतानि, राजा मन्त्रिणम् आदिष्टवान् हे मन्त्रिन्!
भवान् इदानीमेव गत्वा एकस्य व्याघ्रस्य शिरः,
एकस्य अजस्य शिरः एवञ्च एकस्य मनुष्यस्य शिरः आनयतु इति!

मन्त्री तदा राज्ञः आदेशं प्राप्य वनं गत्वा एकस्य व्याघ्रस्य शिरः,
मांसापणं गत्वा एकस्य अजस्य शिरः एवञ्च श्मशानं गत्वा एकस्य मनुष्यस्य शिरः आनीय राज्ञः समीपं दत्तवान्!

एतत् सर्वं नीत्वा विक्रीय आगच्छतु इति राजा मन्त्रिणं पुनः आदिष्टवान्!

तदा मन्त्री तत् सर्वं स्वीकृत्य विपणीं गतवान्!

तत्र एक मांसभक्षकः अजस्य शिरः क्रीतवान्! अन्यश्च अलङ्कारप्रियः व्याघ्रस्य शिरः क्रीतवान्!

परन्तु मनुष्यस्य शिरः कोऽपि न क्रीतवान्!

तदा मन्त्री राज्ञः समीपम् आगत्य सर्वं निवेदितवान्!

भवतु! एतत् मनुष्यस्य शिरः दानरूपेण कस्मै अपि ददातु इति राजा पुनः मन्त्रिणम् आदिष्टवान्!

मन्त्री अपि तदा पुनः मनुष्यस्य शिरः स्वीकृत्य विपणीं गत्वा
एतत् शिरः अहं दानरूपेण ददामि स्वीकुर्वन्तु इति सर्वेषां जनानां पुरतः सूचितवान्!

परन्तु दानरूपेण अपि कोऽपि स्वीकर्तुं नाङ्गीकृतवान्!

एतत् दृष्ट्वा मन्त्रिणः महद् आश्चर्यम् अभवत्!

पुनः च राज्ञः समीपम् आगत्य सर्वं निवेदितवान्!

तदा राजा मन्त्रिणम् उक्तवान् इदानीं ज्ञातवान् खलु!

यावत् वयं जीवामः तावत् एव अस्माकं शरीरस्य महत्वं भवति!
जीवाभावे अस्माकं शरीरस्य महत्वं नैव भवति!

अतः जीवितकाले एव यदि वयं श्रेष्ठाणां ज्येष्ठाणां पादयोः शिरः स्थापयित्वा
तेभ्यः आशिर्वादं स्वीकुर्मः तर्हि अस्माकं जीवनं स्वार्थकं भवति इति!

Shared by: प्रदीपनाथ via Whatapp Samskrut Bharati

Related

Thirukkural in Hindi Chapter 11 to 15 - तिरुक्कूरळ
·910 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 11-15 # Thirukkural in Hindi, Chapters 11 to 15 # Chapters 6 to …
Thirukkural in Hindi Chapter 16 to 20 - तिरुक्कूरळ
·922 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 16-20 # Thirukkural in Hindi, Chapters 16 to 20 # Chapters 11 to …
Thirukkural in Hindi Chapter 21 to 25 - तिरुक्कूरळ
·932 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 21-25 # Thirukkural in Hindi, Chapters 21 to 25 # Chapters 16 to …
Thirukkural in Hindi Chapter 26 to 30 - तिरुक्कूरळ
·929 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 26-30 # Thirukkural in Hindi, Chapters 26 to 30 # Chapters 21 to …
Thirukkural in Hindi Chapter 31 to 35 - तिरुक्कूरळ
·945 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 31-35 # Thirukkural in Hindi, Chapters 31 to 35 # Chapters 26 to …