↓Skip to main content
  1. Samskrut Yatra Blog/

Chandogyopnishad 6 - छान्दोग्योपनिषत् षष्ठोऽध्यायः

·1317 words·7 mins· loading · ·
Sanskrit Text Upanishad Chandogya Upanishad

छान्दोग्योपनिषत् षष्ठोऽध्यायः
#

Chandogyopnishad 6
#

श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो
वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य
ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥

स ह द्वादशवर्ष उपेत्य चतुर्विꣳशतिवर्षः
सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध
एयाय तꣳह पितोवाच ॥ ६.१.२॥

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी
स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं
भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः
स आदेशो भवतीति ॥ ६.१.३॥

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ
स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६.१.४॥

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ
स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६.१.५॥

यथा सोम्यिकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ
स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव
सत्यमेवꣳसोम्य स आदेशो भवतीति ॥ ६.१.६॥

न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं
मे नावक्ष्यन्निति भगवाꣳस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ६.१.७॥

॥ इति प्रथमः खण्डः ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।
तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं
तस्मादसतः सज्जायत ॥ ६.२.१॥

कुतस्तु खलु सोम्यैवꣳस्यादिति होवाच कथमसतः
सज्जायेतेति। सत्त्वेव सोम्येदमग्र
आसीदेकमेवाद्वितीयम् ॥ ६.२.२॥

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज
ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत ।
तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव
तदध्यापो जायन्ते ॥ ६.२.३॥

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता
अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं
भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ६.२.४॥

॥ इति द्वितीयः खण्डः ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि
भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६.३.१॥

सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६.३.२॥

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं
देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरोत् ॥ ६.३.३॥

तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु
सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति
तन्मे विजानीहीति ॥ ६.३.४ ॥

॥ इति तृतीयः खण्डः ॥
यदग्ने रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.१॥

यदादित्यस्य रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.२॥

यच्छन्द्रमसो रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.३॥

यद्विद्युतो रोहितꣳरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.४॥

एतद्ध स्म वै तद्विद्वाꣳस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य
कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदांचक्रुः ॥ ६.४.५॥

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचक्रुर्यदु
शुक्लमिवाभूदित्यपाꣳरूपमिति तद्विदांचक्रुर्यदु
कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६.४.६॥

यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाꣳसमास इति
तद्विदांचक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः
पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६.४.७॥

॥ इति चतुर्थः खण्डः ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो
धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं योऽणिष्ठस्तन्मनः ॥ ६.५.१॥

आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो
धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ ६.५.२॥

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो
धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ६.५.३॥

अन्नमयꣳहि सोम्य मनः आपोमयः प्राणस्तेजोमयी
वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.५.४॥

॥ इति पञ्चमः खण्डः ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा स उर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ ६.६.१॥

एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स उर्ध्वः
समुदीषति तन्मनो भवति ॥ ६.६.२॥

अपाꣳसोम्य पीयमानानां योऽणिमा स उर्ध्वः समुदीषति सा प्राणो भवति ॥ ६.६.३ ॥

तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति सा वाग्भवति ॥ ६.६.४॥

अन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति
भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.६.६॥

॥ इति षष्ठः खण्डः ॥
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः
काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥ ६.७.१॥

स ह पञ्चदशाहानि नशाथ हैनमुपससाद किं ब्रवीमि
भो इत्यृचः सोम्य यजूꣳषि सामानीति स होवाच न वै
मा प्रतिभान्ति भो इति ॥ ६.७.२॥

तꣳ होवाच यथा सोम्य महतोऽभ्या हितस्यैकोऽङ्गारः
खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु
दहेदेवꣳसोम्य ते षोडशानां कलानामेका कलातिशिष्टा
स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ६.७.३॥

स हशाथ हैनमुपससाद तꣳ ह यत्किंच पप्रच्छ सर्वꣳह प्रतिपेदे ॥ ६.७.४॥

तꣳ होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं
खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय
प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६.७.५॥

एवꣳ सोम्य ते षोडशानां कलानामेका
कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली
तयैतर्हि वेदाननुभवस्यन्नमयꣳहि सोम्य मन आपोमयः
प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६.७.६॥

॥ इति सप्तमः खण्डः ॥
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य
विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा
सम्पन्नो भवति स्वमपीतो भवति तस्मादेनꣳ
स्वपितीत्याचक्षते स्वꣳह्यपीतो भवति ॥ ६.८.१॥

स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं
पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत
एवमेव खलु सोम्य तन्मनो दिशं दिशं
पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते
प्राणबन्धनꣳ हि सोम्य मन इति ॥ ६.८.२ ॥

अशनापिपासे मे सोम्य विजानीहीति
यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप
आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितꣳ सोम्य
विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.३॥

तस्य क्व मूलꣳ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन
शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः
सत्प्रतिष्ठाः ॥ ६.८.४॥

अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज
आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितꣳ सोम्य
विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.५॥

तस्य क्व मूलꣳ स्यादन्यत्राद्भ्य्ऽद्भिः सोम्य शुङ्गेन तेजो
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा
यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य
त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य
सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे
प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६.८.६॥

स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स
आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा
भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.८.७॥

॥ इति अष्टमः खण्डः ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां
वृक्षाणाꣳरसान्समवहारमेकताꣳरसं गमयन्ति ॥ ६.९.१॥

ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य
रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु
सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति
सम्पद्यामह इति ॥ ६.९.२ ॥

त इह व्यघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा
पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.९.३ ॥

स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.९.४॥

॥ इति नवमः खण्डः ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते
पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र
एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६.१०.१॥

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः
सत आगच्छामह इति त इह व्याघ्रो वा सिꣳहो वा
वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा
यद्यद्भवन्ति तदाभवन्ति ॥ ६.१०.२॥

स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१०.३॥

॥ इति दशमः खण्डः ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो
मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स
एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६.११.१॥

अस्य यदेकाꣳ शाखां जीवो जहात्यथ सा शुष्यति
द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा
शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ ६.११.२॥

एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं
म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदꣳ
सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव
मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.११.३॥

॥ इति एकादशः खण्डः ॥
न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं
भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव
इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र
पश्यसीति न किंचन भगव इति ॥ ६.१२.१॥

तꣳ होवाच यं वै सोम्यैतमणिमानं न निभालयस
एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति
श्रद्धत्स्व सोम्येति ॥ ६.१२.२॥

स य एषोऽणिमैतदात्म्यमिदद्ꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१२.३॥

॥ इति द्वादशः खण्डः ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति
स ह तथा चकार तꣳ होवाच यद्दोषा लवणमुदकेऽवाधा
अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ ६.१३.१॥

यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति
मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति
कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति
तद्ध तथा चकार तच्छश्वत्संवर्तते तꣳ होवाचात्र
वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६.१३.२॥

स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१३.३॥

॥ इति त्रयोदशः खण्डः ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं
ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा
प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ ६.१४.१॥

तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा
एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी
गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ ६.१४.२॥

स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
तथा सोम्येति होवाच ॥ ६.१४.३॥

॥ इति चतुर्दशः खण्डः ॥
पुरुषꣳ सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि
मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते
मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ ६.१५.१॥

अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि
तेजः परस्यां देवतायामथ न जानाति ॥ ६.१५.२॥

स य एषोऽणिमैतदात्म्यमिदꣳ सर्वं तत् सत्यꣳ स आत्मा
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.१५.३॥

॥ इति पञ्चदशः खण्डः ॥
पुरुषꣳ सोम्योत
हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै
तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं
कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय
परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ ६.१६.१॥

अथ यदि तस्याकर्ता भवति ततेव सत्यमात्मानं कुरुते
स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं
प्रतिगृह्णाति सन दह्यतेऽथ मुच्यते ॥ ६.१६.२॥

स यथा तत्र नादाह्येतैतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स
आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति
विजज्ञाविति ॥ ६.१६.३॥

॥ इति षोडशः खण्डः ॥
॥ इति षष्ठोऽध्यायः ॥

Related

Thirukkural in Hindi Chapter 11 to 15 - तिरुक्कूरळ
·910 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 11-15 # Thirukkural in Hindi, Chapters 11 to 15 # Chapters 6 to …
Thirukkural in Hindi Chapter 16 to 20 - तिरुक्कूरळ
·922 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 16-20 # Thirukkural in Hindi, Chapters 16 to 20 # Chapters 11 to …
Thirukkural in Hindi Chapter 21 to 25 - तिरुक्कूरळ
·932 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 21-25 # Thirukkural in Hindi, Chapters 21 to 25 # Chapters 16 to …
Thirukkural in Hindi Chapter 26 to 30 - तिरुक्कूरळ
·929 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 26-30 # Thirukkural in Hindi, Chapters 26 to 30 # Chapters 21 to …
Thirukkural in Hindi Chapter 31 to 35 - तिरुक्कूरळ
·945 words·5 mins· loading
Sanskrit Text Thiruvalluvar Thirukkural in Hindi
तिरुक्कूरळ - हिन्दी अनुवाद Chapter 31-35 # Thirukkural in Hindi, Chapters 31 to 35 # Chapters 26 to …